वियोगिनिच्छन्दः
लक्षणम्[सम्पादयतु]
- विषमे ससजाः गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी।
अर्थात्- यस्मिन् पद्ये विषमे पादे अर्थात् प्रथमे तृतीये च पादे क्रमेण सगणद्वयम्, एकः जगणः, एकः गुरुः एते भवन्ति तथा च समे पादे अर्थात् द्वितीये चतुर्थे च पादे क्रमेण एकः सगणः, एकः भगणः, एकः रगणः, एकः लघु तथा च एकः गुरुर्भवति तदा वियोगिनीछन्दः भवति।
उदाहरणम्[सम्पादयतु]
- सुहृदामुपकारकारणाद् द्विषदामप्यपकारकारणात्।
- नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम्।।
अर्थः[सम्पादयतु]
मित्राणाम् उपकारार्थं शत्रूणाम् अपकारार्थं च बुधैः नृपसंश्रयः इष्यते, जगत्यस्मिन् केवलं जठरं को न बिभर्ति ? अर्थात् स्व-उदरं तु सर्वेऽपि जनाः बिभरति।