फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मे २०२४
शुक्रवासरः
३१
०७:३९ UTC
आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः।

परं परोपकारार्थं यो जीवति स जीवति ॥

सु.भा. परोपकारप्रशंसा (७८/६)

प्रपञ्चे विद्यमानाः सर्वे अपि मनुष्याः स्वहितं, स्वसुखं च सम्पादयन्ति। अतः आत्मनः निमित्तं सर्वः अपि जनः जीवति एव। परन्तु ये जनाः अन्येषां हितम्, अन्येषां सुखं च कामयमानाः तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव।
सञ्चिका:आत्मार्थं जीवलोकेऽस्मिन्.wav