प्रवेशद्वारम्:संस्कृतम्/उत्तमलेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कौटलीयम् अर्थशास्त्रम्

अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः । केचन अस्य नाम "कौटिल्य" इति वदन्ति । तन्न साधु । यतः अस्य नाम कुटिलार्थकं न भवितुमर्हति । कामन्दकनीतिसारस्य "जयमङ्गलायां व्याख्यायाम् उक्तम् यत् -कौटल्य इति गोत्रनिबन्धना विष्णुगुप्तस्य संज्ञा इति । एतेन कुटलगोत्रापत्यं पुमान् "कौटल्यः" इति निरुच्यते । तथा च केशवस्वामिनः नानार्थार्णवसंक्षेपग्रन्थे "अथ स्यात् कुटलो गोत्रकृत्त्रषौ पुंसि नप् पुनः । विद्यादाभरणेऽथत्रिः कुटिलं कुञ्चिते भवेत् ॥" इत्युक्तम् । तस्मात् कौटल्यः इत्ये समीचीनम् नाम । अयं मगधेषु जातः । क्रिस्तात् पूर्वं द्वितीये तृतीये वा शतमाने कौटल्यः अर्थशास्त्रं चकारेति चरित्रकाराः वदन्ति। चणकनाम्नः ब्राह्मणस्य पुत्रः तस्मात् चाणक्यः इति अस्य नामान्तरम् ।

(अधिकवाचनाय »)