सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/101

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डॉ मेघनाद साहा

डॉ मेघनाद साहा भारतस्य प्रख्यातः वैज्ञानिकः, शिक्षकश्च । डॉ मेघनादः स्वाध्ययनं १९१३ तमे वर्षे समापयत् । तस्मात् वर्षात् आजीवनं सः विज्ञानस्य सेवायै सातत्येन कार्यमकरोत् । १९१३ तमे वर्षे सः 'इण्डियन् साइंस कॉङ्ग्रेस् एसोशिएशन्'-संस्थायाः स्थापनायां महत्त्वपूर्णं योगदानम् अकरोत् । १९२५ तमे वर्षे सः 'साइंस कॉङ्ग्रेस'-संस्थायाः गणित-भौतिक-विभागयोः अध्यक्षः अभवत् । १९३४-३५ मध्ये डॉ मेघनादस्य प्रयत्नैः 'नेशनल् इंस्टीट्यूट् ऑफ् साइंस'-संस्थायाः स्थापना अभवत् । १९३७ तः १९३९ पर्यन्तं सः तस्याः संस्थायाः सभापतिः आसीत् ।

(अधिकवाचनाय »)