यो मामजमनादिं च...
(१०.३ यो मामजमनादिं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
- असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः[सम्पादयतु]
यः माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् असम्मूढः सः मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥
अन्वयः[सम्पादयतु]
यः असम्मूढः माम् अजम् अनादिं लोकमहेश्वरं च वेत्ति सः मर्त्येषु सर्वपापैः प्रमुच्यते ।
शब्दार्थः[सम्पादयतु]
- यः = यः मानवः
- असम्मूढः = मोहरहितः
- माम् = माम्
- अजम् = जन्मरहितम्
- अनादिम् = आदिरहितम्
- लोकमहेश्वरं च = लोकाधिपतिं च
- वेत्ति = वेद
- सः मर्त्येषु = सः मानवेषु
- सर्वपापैः = सकलपापैः
- प्रमुच्यते = विमुक्तो भवति ।
अर्थः[सम्पादयतु]
यः मोहरहितः माम् अजम् आदिरहितं लोकाधिपतिम् अपि जानाति मानवेषु सः सकलपापैः विमुक्तः भवति ।
रामानुजभाष्यम्[सम्पादयतु]
अग्रिमे श्लोके विद्यते ।