हावेरीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हावॆरि इत्यस्मात् पुनर्निर्दिष्टम्)
हावेरीमण्डलम्
मण्डलम्
हावेरीमण्डलस्य चौडय्यनपुरे स्त्थितं मुक्तेश्वरमन्दिरम्
हावेरीमण्डलस्य चौडय्यनपुरे स्त्थितं मुक्तेश्वरमन्दिरम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् हावेरीनगरम्
उपमण्डलानि हनगल्, हावेरि, ब्याडगि, हिरेकेरूरु, राणेबेन्नूरु, शिग्गांव, सवणूरु
Government
 • Deputy Commissioner आदित्यबिस्वास्
Population
 (2001)
 • Total १४,६७,०००
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
581110
दूरवाणिसंज्ञा + 91 (08375)
Vehicle registration KA- 27

हावेरीमण्डलं (Haveri district) कर्णाटकराज्यस्य प्रमुखमण्डलेषु अन्यतमं मण्डलम् । हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. १९९७ तमे वर्षे धारवाडमण्डलस्य सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति । हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति । देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति ।

विस्तीर्णता[सम्पादयतु]

४६५७ च.कि.मी मिता ।

उपमण्डलानि ७[सम्पादयतु]

ब्याडगी, हनगल्, हावेरी, हिरेकेरूरु, राणेबेन्नूरु, सवणूरु, शिग्गांव च सप्त उपमण्डलानि सन्ति ।

नद्यः[सम्पादयतु]

वरदा, भद्रा,तुङ्गा, धर्मा, कुमुद्वती

क्षेत्राणि[सम्पादयतु]

हावेरी, अगडि, कदरमण्दलगि, कर्जगि, होसरित्ति, सवणूरु, हानगल्, निळवळ्ळी, रट्टिहळ्ळि, एलगुरु, चिक्केरुरु, कागिनेले, गुत्तल

अबलूरु (हिरेकेरुरु)[सम्पादयतु]

सर्वज्ञकवेः जन्मस्थलम् एतत । कविः वचनकारः एषः दशमशतकीयः । सर्वज्ञः स्वानुभवम् त्रिपदिषु सुन्दरतया वार्णितवान् । तस्य समाजोद्धारकार्यं जीवनानुभवकथनम् द्विसहस्रवचनेषु द्र्ष्टुं शक्यम् अस्ति । सर्वज्ञः कर्णाटकस्य अपूर्वः कविः।

कागिनेले (हिरेकेरुरु)[सम्पादयतु]

भक्तः कविः ज्ञानी कनकदासः सर्वविदितः महापुरुषः अस्ति । कागिनेलेक्षेत्रे अदिकेशवदेवालयः विशालः सुन्दरश्च अस्ति । स्तम्भाः सुन्दराः शिल्पान्विताः च सन्ति । कनकदासः ’नळचरित्रे’ ’रामधान्यचरित’, ’हरिभाक्तिसार’ इति ग्रन्थान् लिखितवान् । अस्मिन् क्षेत्रे तिरुपतौ इव पूजादिकं प्रचलन्ति तिरुपतिं गन्तुम् असमर्थाः अत्रैव स्वधनम् अर्पयन्ति । अस्य क्षेत्रस्य उत्तरकर्णाटकतिरुपतिः इति च कथयन्ति । देवालयस्य आवरणे श्रीलक्ष्मीनरसिंहः, मारुतिः. सरस्वती च सन्ति ।

मार्गः[सम्पादयतु]

दर्शानीयानि स्थानानि[सम्पादयतु]

राणेबेन्नूरुनगरस्य वन्यप्राणिधाम, कृष्णमृगानाम् अभयराण्यम्, पुरसिद्धेश्वरदेवस्थानं, श्रीहुक्केरीमठः, अबलूरु(सर्वज्ञस्य जन्मस्थानम्), कागिनेले (कनकदासस्य जन्मस्थानम्), हावनूरु द्यामव्वमन्दिरम्, देवरगुड्ड, गङ्गीभावि, भैरनपाद, श्रीक्षेत्रगुड्डदमल्लापूर, श्री मूकप्पस्वामि श्रीहुच्चेश्वरमहस्वमिनां सन्निध्यम् च अत्र दर्शनीयानि स्थानानि ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सर्वज्ञः, कनकदासः, सु.रम्.एक्कुण्डि, गुद्लप्प हळ्ळिकेरी, गळगनाथः, मैलर महदेवप्प,रमानन्द मन्नङ्गि, जङ्गनकोप्प च अत्र जाताः महाजनाः ।

"https://sa.wikipedia.org/w/index.php?title=हावेरीमण्डलम्&oldid=304913" इत्यस्माद् प्रतिप्राप्तम्